|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.35. अध्यायः 035
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति मनोवाक्कायरूपकरणैर्दुष्कर्मपरित्पागपूर्वकं शुभकर्मकरणस्य भगवत्प्रसादनहेतुत्वोक्तिः॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
किं कर्तव्यं मनुष्येण लोकयात्राहितार्थिना।
कथं वै लोकयात्रां तु किंशीलश्च समाचरेत्॥ 13-35-1(82216)
भीष्म उवाच। 13-35-2x(6834)
`देवे नारायणे भक्तिः शंकरे साधुपूजया।
ध्यानेनाथ जपः कार्यः स्वधर्मैः शुचिचेतसा॥' 13-35-2(82217)
कायेन त्रिविधं कर्म वाचा चापि चतुर्विधम्।
मनसा त्रिविधं चैव दश कर्मपथांस्त्यजेत्॥ 13-35-3(82218)
प्राणातिपातः स्तैन्यं च परदाराभिमर्शनम्।
त्रीणि पापानि कायेन सर्वतः परिवर्जयेत्॥ 13-35-4(82219)
असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा।
चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत्॥ 13-35-5(82220)
अनभिध्या परखेषु सर्वसत्वेषु सौहृदम्।
कर्मणां फलमस्तीति त्रिविधं मनसा चरेत्॥ 13-35-6(82221)
तस्माद्वाक्वायमनसा नाचरेदशुभं नरः।
शुभान्येवाचरँल्लोके भक्तो नारायणस्य हि।
तस्यैव तु पदं सूक्ष्मं प्रसादादश्नुयात्परम्॥' ॥ 13-35-7(82222)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चत्रिंशोऽध्यायः॥ 35 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-35-1 लोकयात्रां लोकद्वयश्रेयःसाधनम्॥ 7-35-3 सुभं कर्मफलं चरेदिति ध.पाठः॥ 7-35-4 प्राणातिपातो हिंसा॥ 7-35-5 पारुष्यं निष्ठुरभाषणम्। पैशुन्यं राजद्वारादौ परदोषसूचनम्। अनतं मिथ्यावादः मनसाप्येवं वदिष्यामिति नानुचिन्तयेत्॥ 7-35-6 अनभिध्येति श्लोकेन परद्रव्येष्वभिध्यानं परस्यानिष्टचिन्तनं वेदबादेषु नास्तिक्यमिति त्रीणि त्याज्यानि लक्षयेत्। त्यजेदित्युपक्रमात्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|